वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: सुदाः पैजवनः छन्द: शक्वरी स्वर: धैवतः

त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ sindhūm̐r avāsṛjo dharāco ahann ahim | aśatrur indra jajñiṣe viśvam puṣyasi vāryaṁ taṁ tvā pari ṣvajāmahe nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||

पद पाठ

त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.२

ऋग्वेद » मण्डल:10» सूक्त:133» मन्त्र:2 | अष्टक:8» अध्याय:7» वर्ग:21» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वम्-इन्द्र) तू हे राजन् ! (अहिम्-अहन्) आहन्ता शत्रु को हनन करता है (अधराचः) नीचे मुख हुए (सिन्धून्) बहते जैसे भागते हुए शत्रुओं को (अवसृज) नीचे कर (अशत्रुः-जज्ञिषे) तू शत्रुरहित उत्पन्न हुआ (विश्वं वार्यं पुष्यसि) हमारे लिये सब वरणीय वस्तु की रक्षा करता है (तं त्वा परिष्वजामहे) उस तुझको हम स्नेह करते हैं। (नभन्तामन्यके०) पूर्ववत् ॥२॥
भावार्थभाषाः - राजा इतना बलवान् हो कि शत्रु उसके सम्मुख न ठहर सके, शत्रुओं को नीचे धकेलता जावे, प्रजा की आवश्यक वस्तुओं की रक्षा वृद्धि करे, प्रजा का स्नेहपात्र बना रहे ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वम्-इन्द्र-अहिम्-अहन्) त्वं हे राजन् ! आहन्तारं शत्रुं हंसि “अहिर्निर्ह्रसितोपसर्गः” [निरु० २।१७] (अधराचः, सिन्धून्-अव असृजः) अधोमुखान् स्यन्दमानान् शत्रून् “सिन्धवः समुद्रनदीवत् कठिनावगाहाः शत्रवः” [ऋ० १।६१।११ दयानन्दः] निम्नान् कुरु (अशत्रुः-जज्ञिषे) त्वं शत्रुरहितो जातः (विश्वं वार्यं पुष्यसि) सर्ववरणीयं वस्तु पोषयसि रक्षसि (तं त्वा परि स्वजामहे) तं त्वां परितः स्निह्याम (नभन्ताम् अन्यकेषाम्) पूर्ववत् ॥२॥